|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.73. अध्यायः 073
Mahabharata - Virata Parva - Chapter Topics
भीमार्जुनादिभी रात्रौ युधिष्ठिरसमीपगमनम् ॥ 1 ॥ युधिष्ठिरेण सहर्षं स्वानभिभाषणे अर्जुनेन भीमंप्रति तत्कारणप्रश्नः ॥ 2 ॥ युधिष्ठिरेण तं प्रति विराटेनाक्षताडनस्य तत्कारणत्वकथनम् ॥ 3 ॥ भीमादिभिः क्रोधाद्विराटवधाध्यवसाये युधिष्ठिरेण हेतुकथनेन तत्प्रतिषेधनम् ॥ 4 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-73-0x(3296)(31488)
प्रदाय वस्त्राणि किरीटमाली
विराटगेहे मुदितः सखीभ्यः ।
कृत्वा महर्तर्म तदाऽऽजिमध्ये
दिदृक्षया सोऽभिजगाम पार्थम् ॥ 4-73-1(31489)
तं प्रेक्षमाणस्त्वथ धर्मराजं
पप्रच्छ पार्थोऽथ स भीमसेनम्।
किं धर्मराजो हि यथापुरं मां
मुखं प्रतिच्छाद्य न चाह किंचित् ॥ 4-73-2(31490)
तमेवमुक्त्वा परिशङ्कमानं
दृष्ट्वाऽर्जुनं भीमसेनं च राजा।
तदाऽब्रवीत्तावभिवीक्ष्य राज-
न्युधिष्ठिरस्तत्परिमृज्य रक्तम् ॥ 4-73-3(31491)
दुरात्मना त्वय्यभिपूज्यमाने
विराटराज्ञाऽभिहतोऽस्मि पार्थ ।
तस्मात्प्रहाराद्रुधिरस्य बिन्दू-
न्पश्यन्न चेमे पृथिवीं स्पृशेयुः ।
इति प्रतिच्छाद्य मुखं ततोऽहं
मन्युं नियच्छन्नुपविष्ट आसम् ॥ 4-73-4(31492)
शुभार्ह राष्ट्रं न खिलीकृतं भवे-
द्वयं तु यस्मिन्सुखिनोऽभवाम।
क्रुद्धे तु वीरे त्वयि चाप्रतीते
राजा विराटो न लभेत शर्म ॥ 4-73-5(31493)
अजानता तेन च शौर्यमाजौ
छन्नस्य सत्रेण बलं च पार्थ।
इदं विराटेन मयि प्रयुक्तं
त्वां वीक्षमाणो न गतोस्मि हर्षम् ॥ 4-73-6(31494)
वैशम्पायन उवाच 4-73-7x(3297)
तेनाप्रमेयेन महाबलेन
तस्मिंस्तथोक्ते शममास्थितेन।
तं भीमसेनो बलवानमर्षी
धनंजयं क्रुद्धमुवाच वाक्यम् ॥ 4-73-7(31495)
न पार्थ नित्यं क्षमकालमाह
बृहस्पतिर्ज्ञानवतां वरिष्ठः ।
क्षमीह सर्वैः परिभूयतेसौ
यथा भुडङ्गो विषवीर्यहीनः ॥ 4-73-8(31496)
विराटमद्यैव निहत्य शीघ्रं
सपुत्रपौत्रं सकुलं ससैन्यम्।
योक्ष्यामहे धर्मसुतं च राज्ये
अद्यैव शीघ्रं त्वरिरेष मात्स्यः ॥ 4-73-9(31497)
अनेन पाञ्चालसुताऽथ कृष्णा
उपेक्षिता कीचकेनाभियुक्ता।
तस्मादयं नार्हति राजशब्दं
राजा भव त्वं नृप पार्थवीर्यात्॥ 4-73-10(31498)
राजा कुरूणां च युधिष्ठिरोऽयं
मात्स्येषु राजा भवतु प्रवीरः
तं मात्स्यदेहं शतधा भिनद्मि
पूर्णोदकं कुम्भमिवाश्मनीह ॥ 4-73-11(31499)
अर्जुन उवाच। 4-73-12x(3298)
भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन्।
तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम्।
पश्चाच्चैव कुरून्सर्वान्हनिष्यामि न संशयः ॥ 4-73-12(31500)
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन् ॥ 4-73-13(31501)
तमब्रवीद्धर्मसुतो महात्मा
क्षमी वदान्यः कुपितं च भीमम्।
न प्रत्युपस्थास्यति चेत्सदारः
प्रसादने सम्यगथास्तु वध्यः ॥ 4-73-14(31502)
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन ॥ 4-73-15(31503)
श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि।
राजवेषेण संयुक्ताः स्थानमस्व स्वलंकृताः ॥ 4-73-16(31504)
विराटो यदि तत्रस्थान्राजालङ्कारशोभितान्।
राजलक्षणसंपन्नान्यदि तत्र न मंस्यते।
पश्चाद्धन्यामहे पार्थ विराटं सहबान्धवम् ॥ 4-73-17(31505)
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः।
न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः ॥ 4-73-18(31506)
सहपुत्रेण मात्स्यः स संप्रहृष्टो नराधिपः ।
तां रात्रिमवसत्प्रीतः संप्रहृष्टेन चेतसा ॥ ॥ 4-73-19(31507)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिसप्ततितमोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|